– प्रज्ञा
जगतः सकलविद्याः ज्ञानानि च, भौतिकविज्ञानम् आहोस्वित् आत्मपरमात्मनोः अथवा मनसा सम्बद्धम् अध्यात्मविज्ञानं भवतु, सर्वेषां आदिमूलम् अर्थात् सर्वेषाम् आधारभूताः वेदाः सन्ति। वेदानाम् उपाङ्गस्वरूपेण दर्शनशास्त्राणि गृह्यन्ते। उपाङ्गानाम् अङ्गानाञ्च उद्देश्यमपि वैदिकतत्त्वार्थानां सम्यगवबोधनमस्ति। प्रायः श्रुत्याधृतानां सर्वेषां दर्शनानाम् आधाराः वेदा एव। एतेषां सर्वेषां दर्शनशास्त्राणाम् उत्सं वेदेषु क्वचिद् बीजवत् सूक्ष्मरूपे वर्तते, क्वचिद् वृक्षवद् विस्तृतरूपेऽपि विद्यते। एतेषु एकं शास्त्रं महर्षिणा पतञ्जलिकृतं योगसूत्रं = योगदर्शनं प्रसिद्धमस्ति। योगस्य मूलः अपि वेदाः सन्ति यतोहि योगविद्यायाः लक्षणं, योगस्य प्रक्रिया, एतदर्थं चित्तैकाग्र्यम् इत्यादयः सर्वे विषयाः वैदिकमन्त्रेषु परिलक्ष्यन्ते।
चित्तैकाग्र्यम् – महर्षिणा पतञ्जलिकृते प्रथमे योगसूत्रे महर्षिणा व्यासेन रचितं भाष्यानुसारं चित्तस्य पञ्चभूमिषु (क्षिप्त-मूढ-विक्षिप्त-एकाग्र-निरुद्धाः चित्तभूमयः) अन्तिमयोः एकाग्रनिरुद्धयोः चित्तावस्था योगः इति आख्यायते। एकाग्रभूमौ चित्तमेकस्मिन्नेव विषये तिष्ठति तथा च निरुद्धभूमौ चित्तस्य व्यापारः सर्वथा निरुद्धं जायते। चित्तम् एकाग्रीकर्तुं वेदेषु नैकाः मन्त्राः सन्ति, यथा –
ओं मनो न्वा हुवामहे नाराशंसेन सोमेन। पितृणां च मन्मभिः॥[1]
अर्थात् अस्माभिः मनुष्यजीवनाय प्रशंसनीयैः स्तोमैः अपि च अनुभवसिद्धानां जनानाम् अनुभवयुक्तैः बोधैः मनः सर्वतः आहूयते, एकाग्रीक्रियते च। इत्थमेव –
‘आ तु एतु मनः पुनः क्रत्वे दक्षाय जीवसे। ज्योक्च सूर्यं दृशे॥[2]
अस्मिन् मन्त्रे ऋषिः योगाभ्यासस्य साधकं सम्बोधयन् कथयति यत् हे साधक! तव मनः सर्वतः प्रत्यावर्तयेत्। शुभकर्माणि कर्त्तुम्, आन्तरिकबलं च प्राप्तये, जीवनाय तथा अनारतं चिरकालपर्यन्तञ्च सर्वप्रेरकस्य प्रभोः साक्षात्कारम् समाधिलाभार्थं तव चित्तं सर्वतः प्रत्यावर्तयेत्।
उपासना–योगः – योगस्योद्देश्यमपि अपरैः दर्शनैः सममात्मसाक्षात्कारं कृत्वा कैवल्य-भावस्य, ईश्वरसायुज्यस्य लब्धिरस्ति। एतदर्थं योगसूत्रे ईश्वरभावनया उपासनया साकम् तस्य जपमपि प्रतिपादितम्।[3] एषा प्रमुखा अवधारणा महर्षिपतञ्जलिद्वारा वेदेभ्यः गृहीता। योगस्य अनया प्रक्रियया सम्बद्धः ऋग्वेदमन्त्रः अस्ति –
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः।
वि होत्रा दधे वयुनाविदेक इन्मही देवस्य सवितुः परिष्टुतिः॥[4]
मन्त्रस्यास्य भावार्थः अस्ति यत् धीमन्तः जनाः उपासनायोगं गृह्णन्ति। ते सर्वज्ञे सर्वेभ्यः महति सर्वविद्यायुते च परमेश्वरे स्वीयानि चित्तानि युञ्जन्ति अपि च स्वीयान् बुद्धिवृत्तीन् अपि सदा परमेश्वर एव धारयन्ति। उपासनायां सर्वे मनुष्याः स्वीयं चित्तं तस्मिन् धारयन्तु।
ध्यानयोगः – योगाभ्यासेनैव साधकाः ईश्वरं ध्यातुं पारयन्ति। योगस्याष्टाङ्गेषु (यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणा-ध्यान-समाधयः) सप्तममङ्गं ध्यानमस्ति। ध्यानस्य लक्षणमस्ति, ‘तत्र प्रत्ययैकतानता ध्यानम्।’[5] अस्यार्थोऽस्ति, यस्मिन् धारणा धृता, तस्मिन् ज्ञेयविषयकस्य ज्ञानस्य साम्यं ध्यानमस्ति। यजुर्वेदे योगाभ्यासेन ईश्वरे ध्यानस्य चर्चा वर्तते-
योगे योगे तवस्तरं वाजे वाजे हवामहे। सखाय इन्द्रमूतये॥[6]
अस्यास्ति मन्त्रस्यार्थः पौनःपुन्येन योगाभ्यासेन वारं वारं शरीरमनसोः बलवृद्धिकाले वयं सर्वे मिथः मैत्रीभावसहितं स्वकीयरक्षायै अनन्तं बलवतं ऐश्वर्यसम्पन्नमीश्वरं ध्यायामः। तस्मादेव सर्वविधं साहाय्यं याचामहे।
विवेकख्यातिः – सम्प्रज्ञाताख्यास्य समाधेः यः अन्तिमः भेदः, अस्मितानुगता समाधिः, तदनु समाधिङ्गतस्य पुरुषस्य आभ्यन्तरे एकः अध्यात्मप्रसादः उत्पद्यते।[7] तस्य सञ्ज्ञा अस्ति- ऋतम्भरा प्रज्ञा।[8] अस्याः ऋतम्भरायाः प्रज्ञायाः पश्चाद् विवेकख्यातिः जायते। योगदर्शनस्य सर्वे उपदेशाः इमां विवेकख्यातिनीं बुद्धिं प्राप्तुं कथिताः सन्ति। अस्योल्लेखः यजुर्वेदस्य निम्नलिखिते मन्त्रे वर्तते,
युञ्जानः प्रथमं मनस्तत्त्वाय सविता धियम्।
अग्नेर्ज्योतिर्निचाय पृथिव्या अध्याभरत्॥[9]
अस्य मन्त्रानुसारं योगसाधकाः मनुष्याः तत्त्वस्य अर्थात् ब्रह्मणः ज्ञानाय यदा स्वीयं चित्तं प्रथमं परमेश्वरे युञ्जन्ति तदा सविता अर्थात् परमेश्वरः तेषां बुद्धिं स्वकीयया करुणया अनुग्रहेन च आत्मनि अङ्गीकरोति। तदैव ते परमेश्वरस्य प्रकाशस्य निश्चयं कृत्वा यथावद् धारयन्ति, पृथिव्यां योगस्य इदमेव प्रसिद्धं लक्षणम्।
निष्कर्ष – इत्थम् उपर्युक्तानां विवेचितानां कतिपयानां वेदमन्त्राणाम् उद्धरणैः तेषां अर्थैश्च सिद्ध्यते यत् योगस्य मूलस्रोताः वेदा एव सन्ति अपि च योगदर्शने प्रतिपादिता योगविद्या महर्षिणा पतञ्जलिद्वारा वेदेभ्यः गृहीत्वा स्वस्य सूत्रग्रन्थे सुव्यवस्थया उपनिबद्धा च।
(लेखिका: दिल्लीविश्वविद्यालयस्य संस्कृतविभागे शोधच्छात्रा अस्ति।)
सन्दर्भ –
1 ऋग्वेदः 10.57.3
2 ऋग्वेदः 10.57.4
3 तज्जपस्तदर्थभावनम्। – योगसूत्रम् 1.28
4 ऋग्वेदः 5.81.1
6 यजुर्वेद: 11.14
7 योगसूत्रम् 1.47
8 योगसूत्रम् 1.48
9 यजुर्वेदः 11.1
और पढ़ें : Shrimad Bhagavad-Gita and Yoga
Facebook Comments