भारतीय-ज्ञान-परम्परायाम् बुद्धिः इत्यनया अभिप्रायः

 – चान्दकिरणः

व्यवसायात्मिका     बुद्धिरेकेह    कुरुनन्दन

बहुशाखा ह्यानन्ताश्च बुद्धयोऽव्यवसायिनाम्॥

(अर्थात् हे अर्जुन! अस्मिन् लोके कर्मयोगे प्रवृत्तिशीला बुद्धिः एका एव। परन्तु अप्रवृत्तिशीलानाम् अस्थिर-चित्तानां जनानां बुद्ध्यस्तु बहुभेदाः अनन्ताश्च भवन्ति।)

जनेषु परस्परं भिन्नता सामान्यतः सर्वेषु सन्दर्भेषु दृश्यते। ‘वैयक्तिक-भिन्नतायाः’ अनेकानि उदाहरणानि प्रायः पदे पदे प्राप्यन्ते। एतेषु प्रायः बुद्धेः किञ्चित् विशिष्टं स्थानम् अनुभूयते। अस्मिन् सन्दर्भे ‘बुद्धिः योग्यता वा’ इति पदद्वयस्य प्रयोगः प्रायः समानार्थे क्रियते। उभयोः परस्परं भेदः अस्ति। योग्यतायाः वस्तुतः अनेके सन्दर्भाः सन्ति। यथा, शारीरिक-योग्यता, मानसिकयोग्यता, कार्य-करण-योग्यता, चिन्तन-क्षमता, भाषा-प्रयोग-योग्यता, रचनात्मक-योग्यता इति। भिन्न-योग्यतायाः विभिन्नेषु कारणेषु बुद्धेः अपि किञ्चित् प्रमुखं स्थानम् अस्ति। बौद्धिकयोग्यता संस्कृतवाङ्मये सर्वेषु प्रमुखेषु दर्शनेषु शास्त्रेषु वा बुद्धिविषयणी चर्चा प्रकर्षेण दृश्यते एव। ‘बुद्धिः’ नाम किम्? अस्याः स्वरूपं किं कीदृशं वा? कानि अस्याः प्रकार्याणि? कानि सन्ति अस्याः पर्यायपदानि? बुद्धेः वर्धनाय विकासाय वा आनुवंशिकतायाः परिवेशस्य वा किं योगदानम् अथवा स्थानम् अस्ति? इत्यादयः अनेके विचारणीयाः प्रश्नाः प्राचीन-भारतीय-ज्ञान-परम्परायाम् उत्थापिताः?

बुद्धिः (बुध् धातुः+क्तिन्-प्रत्ययः) इति शब्दः ज्ञानार्थक-बुध्-धातोः भावार्थे क्तिन् प्रत्यये कृते सति निष्पद्यते। सामान्यतः अस्य ‘ज्ञानम्’ इति अर्थः अस्ति। विभिन्नेषु शास्त्रेषु वाङ्मये वा ‘बुद्धिः’ इति शब्दस्य प्रयोगः विभिन्नेषु अर्थेषु दृश्यते। यथा, ज्ञानम् (बुद्धिर्यस्य बलं तस्य), प्रतिभा (शास्त्रेष्वकुण्ठिता बुद्धिः), विवेकः, विचारणा, धारणा (दूरात्तमवलोक्य व्याघ्रबुद्ध्या पलायन्ते), मनमूढः प्रत्ययेनबुद्धिः, तीक्ष्णा नारुन्तुदा बुद्धिः, इत्यादयः। प्राचीने ‘अमरकोशः’ इति संस्कृत-शब्द-कोशे बुद्धेः शब्दस्य चतुर्दश अर्थाः उल्लिखिताः –

बुद्धिर्मनीषा धीषणा धीः प्रज्ञा शेमुषी मतिः

प्रेक्षोपलब्धिश्चित्संवित्प्रतिपज्ज्ञप्तिचेतनाः॥

  1. बुद्धिः
  2. मनीषा
  3. धीषणा
  4. धीः
  5. प्रज्ञा
  6. शेमुषी
  7. मतिः
  8. प्रेक्षा
  9. उपलब्धिः
  10. चित्
  11. संवित्
  12. प्रतिपत्
  13. ज्ञप्तिः
  14. चेतना इति।

एवमेव शब्दकल्पद्रुमे बुद्धेः विषये विस्तरेण उक्तम्। यथा, बुद्धिः, स्त्री, (बुध्यतेऽनयेति। बुध् + क्तिन्।) १ धारणा २ प्रतिपत्तिः ३ मेधा ४ मननम् ५ मनः ६ ज्ञानम् ७ बोधः ८ हृल्लेखः ९ संख्या १० प्रतिभा। आत्मजा, पण्डा, विज्ञानम्। उपर्युक्तेषु बुद्ध्यर्थं प्रयुक्तपर्यायेषु बुद्धिशब्दः प्रायः ज्ञानरूपार्थे प्रयुक्तः। अयं बुद्धिः शब्दः भिन्नेषु दर्शनशास्त्रेषु क्वचित् तत्त्वरूपेण स्वीकृतः क्वचिच्च गुणरूपेण। प्रमुखरूपेण एषा निश्चयात्मिकान्तःकरण वृत्तिः।

साङ्ख्यदर्शनस्य ‘पञ्चविंशतिः’ पदार्थेषु बुद्धिः विशिष्टः पदार्थः अस्ति। अस्याः विशिष्टं स्थानम् इति। साङ्ख्यशास्रे बुद्ध्यर्थं ‘महत्तत्त्वम्’ इत्यपि पदं प्रयुक्तम्। उक्तम् अपि साङ्ख्यदर्शनानुसारम् अध्यवसायो बुद्धिः –

अध्यवसायो बुद्धिधर्मो ज्ञानं विराग ऐश्वर्यम्

सात्त्विकमेतद्रूपं तामसमस्मात् विपर्यस्तम्(साङ्ख्यकारिका)

अध्यवसायः इति बुद्धेः लक्षणम्। एवमेव साङ्ख्यसूत्रानुसारम् –

अध्यवसायो बुद्धिः। (साङ्ख्यसूत्रम्)

‘अध्यवसायवती बुद्धिः’ इत्यपि उक्तम्। ‘अध्यसायः’ इत्यनेन सामान्यः अभिप्रायः अस्ति –

‘विषयम् अधिकृत्य अवसायः अर्थात् निश्चयः’

इति। कार्येण सम्बद्धेन कारणेन एव कार्यस्य उत्पत्तिः भवति न असम्बद्धेन कारणेन। अनया सिद्धान्तरीत्या यदा ज्ञानेन्द्रियस्य विषयेण सह सम्बन्धो भवति तव तद्विषयकं ज्ञानं जायते। यदा चक्षुषः सम्बन्धः घटेन सह भवति तदैव घटस्य निश्चायात्मकं ज्ञानम् ज्ञातुः अन्तःकरणे जायते इति।

अन्तःकरणे इदं घटविषयकं निश्चयात्मकं ज्ञानम् एव बुद्धिः। अस्याः प्रक्रियायाः त्रयः आयामाः सन्ति –

  • वस्तु ज्ञातुं ज्ञातुः अधिकारत्वम्
  • वस्तुनः ज्ञानम्
  • ज्ञातव्यमेव इति निश्चयः।

एषा तृतीया वृत्तिः एव निश्चयः। अस्याः बुद्धेः अष्टौ धर्माः –

  • धर्मः, ज्ञानम्, वैराग्यम्, ऐश्वर्यम् इति चत्वारः सात्विकाः धर्माः।
  • अधर्मः, अज्ञानम्, अवैराग्यम्, अनेश्वर्यं चेतिचत्वाराः असात्विकाः धर्माः।

बुद्धिः जन्म-जात-क्षमता इति मन्यते तथापि परिवेशेन सम्बद्धानि अनेकानि कारकाणि अपि बौद्धिक-विकासे स्वप्रभावं जनयन्ति। भवति। एषा मानवस्य समायोजनस्य आधारः। मानवस्य प्रत्यक्षीकरणस्य आधारः अपि बुद्धिः एव मन्यते।

श्रीमद्भगवद्गीतायां द्वितीये, तृतीये, सप्तमे, दशमे, त्रयोदशे, अष्टादशे च अध्यायेषु बुद्धेः सन्दर्भे विशिष्टं विवेचनं प्राप्यते। श्रीमद्भगवद्गीतायाः विभिन्नानां टीकानाम् अनुसारं यद्यपि अत्र अस्य पदस्य प्रयोगः अनेकेषु रूपेषु अथवा क्रियासु कृतः, यथा, ज्ञानं, मनः, परोक्षज्ञानम्, अपरोक्षज्ञानं, आत्मावलोकनरूपा, ब्रह्मदर्शिनी प्रज्ञा, अध्यवसायात्मिका बुद्धिः, बुध्यते अनयेति बुद्धिः, अन्तःकरणम्, ब्रह्मात्मैकनिश्चयः, आत्मस्वरूपविषया, अन्तःकरणस्य विवेकशक्तिः, सारासारविवेके नैपुण्यम्, सूक्ष्मार्थावबोधने सामर्थ्यम्, विज्ञानात्मकं महत्तत्त्वम्, अन्तःकरणवृत्तिः इत्यादयः। तथापि मूल भावः समानः एव यत् अस्याः सम्बन्धः मूलरूपेण चिन्तनप्रक्रियया सह अस्ति।

सारतः भारतीय-ज्ञान-परम्परायां बुद्धिः इत्यनेन पदेन अभिप्रायः अस्ति –

  • उत्तम-निर्णय-स्वीकरण-क्षमता
  • उत्तम-अवबोध-क्षमता
  • चिन्तन-क्षमता
  • उत्तम-तर्क-प्रस्तुति-क्षमता
  • व्यवहार-क्षमता
  • परिस्थिति-समञ्जन-क्षमता
  • रचनात्मक-क्षमता

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता॥ (श्रीमद्भगवद्गीता, २.५८)

(इन्द्रियाणि सर्वदा एव शब्दादिषु विषयेषु प्रवृत्तानि भवन्ति। यथा कूर्मः भयात् स्वाङ्गानि सङ्कोचयति तथैव यदा ज्ञाननिष्ठायां प्रवृत्तः जनः सर्वाणि इन्द्रियाणि शब्दादिभ्यः विषयेभ्यः सङ्कोचयति तदा तस्य प्रज्ञा प्रतिष्ठिता। सः एव स्थितप्रज्ञः इति।)

(लेखकः दिल्लीनगरस्य संस्कृत-संवर्धन-प्रतिष्ठानस्य निदेशकः अस्ति।)

और पढ़ें : भारतीय ज्ञान परंपरा

Leave a Reply

Your email address will not be published. Required fields are marked *